मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २९, ऋक् २

संहिता

ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् ।
अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥

पदपाठः

ब्रह्म॑न् । वी॒र॒ । ब्रह्म॑ऽकृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।
अ॒स्मिन् । ऊं॒ इति॑ । सु । सव॑ने । मा॒द॒य॒स्व॒ । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥

सायणभाष्यम्

हे ब्रह्मन् परिवृढ वीरेन्द्र ब्रह्मकृतिं क्रियमाणं स्तोत्रं जुषाणः सेवमानः अर्वाचीनोस्मदभिमुखः सन् हरिभिरश्वैस्तूयं क्षिप्रं याहि अस्मिन्नु अस्मिन्नेव सवने यज्ञे सु सुष्ठु मादयस्व च । नोस्मदीयानि इमा इमानि ब्रह्माणि स्तोत्राणि चोपशृणवः उपशृणु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३