उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒रृषी॑णाम् ।
अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥
उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अशृ॑णोः । ऋषी॑णाम् ।
अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥
उतो अपि च घेति पूरणः हे मघवन् येषां पूर्वे ऋषयः पुरुष्याइत् पुरुषेभ्योहिताएवासन् अध अथोहं त्वा त्वां जोहवीमि भृशं स्तौमि अपि च हे इन्द्र त्वं नोस्माकं पितेव जनकइव प्रमतिः बन्धरसि ॥ ४ ॥