वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
इयंव्याख्यातचरा ॥ ५ ॥
आनोदेवेति पंचर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । आनोदेवेत्यनुक्रान्तम् । प्रथमेछन्दोमे प्रउगशस्त्रे आनइत्ययमैन्द्रस्तृचः सूत्र्यतेहि-आनोदेवशवसायाहिशुष्मिन् प्रवोयज्ञेषुदेवयन्तोअर्चन्निति ।