मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३०, ऋक् १

संहिता

आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इ॑न्द्र रा॒यो अ॒स्य ।
म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥

पदपाठः

आ । नः॒ । दे॒व॒ । शव॑सा । या॒हि॒ । शु॒ष्मि॒न् । भव॑ । वृ॒धः । इ॒न्द्र॒ । रा॒यः । अ॒स्य ।
म॒हे । नृ॒म्णाय॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒ज्र॒ । महि॑ । क्ष॒त्राय॑ । पौंस्या॑य । शू॒र॒ ॥

सायणभाष्यम्

हे देव द्योतमान शुष्मिन् बलवन्निन्द्र नोस्मान् शवसा बलेन सार्धमायाहि । अस्यास्मभ्यं देयस्य रायोधनस्यवृधो वर्धयिता च भव । हे नृपते सुवज्र महे महते नृम्णाय बलाय च भव । बाधः नृम्णमिति बलनामसु पाठात् । हे शूर महि महते क्षत्राय शत्रूणां हिंसकाय क्षदिर्हिंसा कर्मा पौंस्याय वीर्याय च भव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४