मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३०, ऋक् २

संहिता

हव॑न्त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूरा॒ः सूर्य॑स्य सा॒तौ ।
त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ॥

पदपाठः

हव॑न्ते । ऊं॒ इति॑ । त्वा॒ । हव्य॑म् । विऽवा॑चि । त॒नूषु॑ । शूराः॑ । सूर्य॑स्य । सा॒तौ ।
त्वम् । विश्वे॑षु । सेन्यः॑ । जने॑षु । त्वम् । वृ॒त्राणि॑ । र॒न्ध॒य॒ । सु॒ऽहन्तु॑ ॥

सायणभाष्यम्

हे इन्द्र हव्यं हवातव्यं त्वा त्वां विवाचि विविधावाचोयस्मिन् प्रादुर्भवन्ति तस्मिन् युद्धे शूराः पुरुषाः तनूष्वंगेषु रक्षणीयासु सूर्यस्य सातौ संभजने सरति गच्छतीत्यायुरत्रसूर्यः विवक्षितः तस्य चिरकालं प्राप्त्यर्थं हवन्ते ह्वयन्ति । उः पूरणः । विश्वेषु सर्वेषु जनेषु त्वमेव सेन्यः सेनार्होसि । अपि च त्वं वृत्राणि शत्रून् सुहन्तु सुहन्तुनाम्ना वज्रेण रन्धय अस्मभ्यं वशीकुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४