मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३०, ऋक् ४

संहिता

व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव॑न्त शूर॒ दद॑तो म॒घानि॑ ।
यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवन्त ॥

पदपाठः

व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । दे॒व॒ । स्तव॑न्त । शू॒र॒ । दद॑तः । म॒घानि॑ ।
यच्छ॑ । सू॒रिऽभ्यः॑ । उ॒प॒ऽमम् । वरू॑थम् । सु॒ऽआ॒भुवः॑ । ज॒र॒णाम् । अ॒श्न॒व॒न्त॒ ॥

सायणभाष्यम्

हे देव शूरेन्द्र ते तव वयं वसिष्ठाः स्वभूता ये जनाः मदीयपुत्रपौत्रादयो मघानि मंहनीयानि हवींषि ददतः प्रयच्छन्तः स्तवन्त स्तुवन्ति तेपि तव स्वभूताः तेभ्यः उभयेभ्यः सूरिभ्यः स्तोतृभ्यः उपमं श्रेष्ठं वरूथं गृहं यच्छ प्रयच्छ अपि च ते उभे स्वाभुवः सुसमृद्धाः सन्तः जरणां जरां अश्नवन्त प्राप्नुवन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४