मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् १

संहिता

प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत ।
सखा॑यः सोम॒पाव्ने॑ ॥

पदपाठः

प्र । वः॒ । इन्द्रा॑य । माद॑नम् । हरि॑ऽअश्वाय । गा॒य॒त॒ ।
सखा॑यः । सो॒म॒ऽपाव्ने॑ ॥

सायणभाष्यम्

हे शखायो वोयूयं हर्यश्वाय सोमपाव्ने सोमानां पात्रे इन्द्राय मादनं मदकरं स्तोत्रं प्रगायत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५