मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् २

संहिता

शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ ।
च॒कृ॒मा स॒त्यरा॑धसे ॥

पदपाठः

शंस॑ । इत् । उ॒क्थम् । सु॒ऽदान॑वे । उ॒त । द्यु॒क्षम् । यथा॑ । नरः॑ ।
च॒कृ॒म । स॒त्यऽरा॑धसे ॥

सायणभाष्यम्

उतापि च हे स्तोतः सुदानवे शोभनदानाय सत्यराधसे सत्यधनायेन्द्राय उक्थं स्तोमं यथा नरोन्ये स्तोतारः द्युक्षं दीप्तेः साधनभूतं स्तोत्रं शंसन्ति तद्वत् त्वमपि शंस उच्चारय । इदितिपूरणः वयं चकृम स्तोत्रं करवाम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५