मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ३

संहिता

त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो ।
त्वं हि॑रण्य॒युर्व॑सो ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । वा॒ज॒ऽयुः । त्वम् । ग॒व्युः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
त्वम् । हि॒र॒ण्य॒ऽयुः । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं नोस्माकं वाजयुरन्नकामो भव हे शतक्रतो त्वं नोस्माकं गव्युर्गोकामोभव हे वसो वासयितरिन्द्र त्वं हिरण्ययुः हिरण्यकामोपि भव । छन्दसि परेच्छायामपिदृश्यते क्यजितिक्यच् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५