मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ४

संहिता

व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥

पदपाठः

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि । प्र । नो॒नु॒मः॒ । वृ॒ष॒न् ।
वि॒द्धि । तु । अ॒स्य । नः॒ । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे वृषन् कामानां वर्षितरिन्द्र त्वायवः त्वत्कामाः वयं वसिष्ठाः त्वामभि प्रणोनुमः प्रकर्षेण स्तुमः । हे वसो वासयितरिन्द्र अस्य इदं नः अस्मदीयं स्तोत्रं तु क्षिप्रं विद्धि अवधारय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५