मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ५

संहिता

मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑ ॥

पदपाठः

मा । नः॒ । नि॒दे । च॒ । वक्त॑वे । अ॒र्यः । र॒न्धीः॒ । अरा॑व्णे ।
त्वे इति॑ । अपि॑ । क्रतुः॑ । मम॑ ॥

सायणभाष्यम्

हे इन्द्र अर्यः स्वामी त्वं वक्तवे परुषवाक्यानां वक्त्वे निदे निन्दित्रे अराव्णे अदात्रे च नोस्मान् मारन्धीः वशं माकार्षीः । अपि अपिच ते त्वयि मम क्रतुः मदीयं स्तोत्रलक्षणं कर्म गच्छत्वितिशेषः अस्मदीयं स्तोत्रं भवच्चित्ते प्रविशत्वित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५