मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ६

संहिता

त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् ।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥

पदपाठः

त्वम् । वर्म॑ । अ॒सि॒ । स॒ऽप्रथः॑ । पु॒रः॒ऽयो॒धः । च॒ । वृ॒त्र॒ऽह॒न् ।
त्वया॑ । प्रति॑ । ब्रु॒वे॒ । यु॒जा ॥

सायणभाष्यम्

हे वृत्रहन् शत्रूणां हिंसकेन्द्र त्वं वर्म अस्माकं कवचमसि कवचवद्रक्षकोसीत्यर्थः । सप्रथः सर्वतः पृथुश्चासि पुरोयोधश्च पुरोयोद्धाचासि त्वया युजा त्वया सहायेन प्रति ब्रुवे शत्रून् प्रति ब्रवीमि प्रतिहन्मीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५