मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ७

संहिता

म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ ।
म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥

पदपाठः

म॒हान् । उ॒त । अ॒सि॒ । यस्य॑ । ते॒ । अनु॑ । स्व॒धाव॑री॒ इति॑ स्व॒धाऽव॑री । सहः॑ ।
म॒म्नाते॒ इति॑ । इ॒न्द्र॒ । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

उतापिच हे इन्द्र त्वं महानसि सर्वाधिकोसि हे इन्द्र यस्य ते तव सहो बलं स्वधावरीअन्नवत्यौ रोदसी द्यावापृथिव्यौ अनुमम्नाते अनुमन्येते । त्वदीयं सहः सर्वाधिकमित्यत्रोभावपि लोकौ विसंवादं न कुरुत इत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६