मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ८

संहिता

तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री ।
नक्ष॑माणा स॒ह द्युभि॑ः ॥

पदपाठः

तम् । त्वा॒ । म॒रुत्व॑ती । परि॑ । भुव॑त् । वाणी॑ । स॒ऽयाव॑री ।
नक्ष॑माणा । स॒ह । द्युऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र तमुक्तगुणविशिष्टं त्वा त्वां सयावरी त्वयासहगंत्री यत्रयत्र त्वं यासि तत्रतत्र यांतीत्यर्थः द्युभिस्तेजोभिः सह नक्षमाणा व्याप्नुव- न्ती मरुत्वती मरुतः स्तोतारः तद्वती वाणी स्तुतिः परिभुवत् परिभवतु परिभवतिरत्रपरिग्रहार्थीयः परिगृह्णात्वित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६