मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ९

संहिता

ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ ।
सं ते॑ नमन्त कृ॒ष्टयः॑ ॥

पदपाठः

ऊ॒र्ध्वासः॑ । त्वा॒ । अनु॑ । इन्द॑वः । भुव॑न् । द॒स्मम् । उप॑ । द्यवि॑ ।
सम् । ते॒ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ॥

सायणभाष्यम्

हे इन्द्र उपद्यवि द्युलोकसमीपे स्थितं दस्मं दर्शनीयं त्वा त्वां अनूद्दिश्य ऊर्ध्वासः ऊर्ध्वा इन्दवःअस्मदीयाः सोमाः भुवन् भवन्ती । कृष्टयः प्रजाश्च ते तुभ्यं सन्नमन्त । भुवि सोमास्त्वदर्थमेव जायन्ते । प्रजाश्च त्वामेव प्रणमन्तीतीन्द्रस्तुतिः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६