मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् १०

संहिता

प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।
विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥

पदपाठः

प्र । वः॒ । म॒हे । म॒हि॒ऽवृधे॑ । भ॒र॒ध्व॒म् । प्रऽचे॑तसे । प्र । सु॒ऽम॒तिम् । कृ॒णु॒ध्व॒म् ।
विशः॑ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒ऽप्राः ॥

सायणभाष्यम्

हे मदीयाः पुरुषाः वोयूयं महिवृधे महतां धनानां वर्धयित्रे महे महते इन्द्राय प्रभरध्वं सोमन्प्रणयत । प्रचेतसे प्रकृष्टमतये इन्द्राय सुमतिं सुष्टुतिं च प्रकृणुध्वं प्रकुरुत । अथ प्रत्यक्षस्तुतिः हे इन्द्र चर्षणिप्राः कामैः प्रजानां पूरयिता त्वं पूर्वीः हविषां पूरयित्रीर्विशः प्रजाः प्रचर अभिगच्छ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६