मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३१, ऋक् ११

संहिता

उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्रा॑ः ।
तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीरा॑ः ॥

पदपाठः

उ॒रु॒ऽव्यच॑से । म॒हिने॑ । सु॒ऽवृ॒क्तिम् । इन्द्रा॑य । ब्रह्म॑ । ज॒न॒य॒न्त॒ । विप्राः॑ ।
तस्य॑ । व्र॒तानि॑ । न । मि॒न॒न्ति॒ । धीराः॑ ॥

सायणभाष्यम्

उरुव्यचसे पृथुव्याप्तये महिने महते यस्माइन्द्राय सुवृक्तिं स्तुतिं ब्रह्म अन्नं हविश्च विप्राः प्राज्ञाः जनयन्त जनयन्ति तस्येन्द्रस्य व्रतानि रक्षणादीनि कर्माणि धीराः प्राज्ञाः देवाः अपि च मिनन्ति हिंसन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६