मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १

संहिता

मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् ।
आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥

पदपाठः

मो इति॑ । सु । त्वा॒ । वा॒घतः॑ । च॒न । आ॒रे । अ॒स्मत् । नि । री॒र॒म॒न् ।
आ॒रात्ता॑त् । चि॒त् । स॒ध॒ऽमाद॑म् । नः॒ । आ । ग॒हि॒ । इ॒ह । वा॒ । सन् । उप॑ । श्रु॒धि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वया वाघतश्चन यजमाना अप्येतेस्मदस्मत्त आरे दूरे मोनिरीरमन् न नितरां रमयन्तु । अतः त्वं आरत्ताच्चित् दूरेपि वर्तमानोस्मदीयं सधमादं यज्ञमागह्यागच्छ इह वा अत्रापिवा सन् विद्यमानः उपश्रुधि अस्मदीयं स्तोत्रमुपश्रृणु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७