मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २

संहिता

इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते ।
इन्द्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥

पदपाठः

इ॒मे । हि । ते॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । मधौ॑ । न । मक्षः॑ । आस॑ते ।
इन्द्रे॑ । काम॑म् । ज॒रि॒तारः॑ । व॒सु॒ऽयवः॑ । रथे॑ । न । पाद॑म् । आ । द॒धुः॒ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदर्थं सुते अभिषुते सोमे इमे ब्रह्मकृतः मधौन मधुनीव मक्षोमक्षिकाः सचासह आसते उपविशन्ति हीति प्रसिद्धौ । अथ परोक्षस्तुतिः वसूयवो धनकामाः जरितारः स्तोतारः काममिष्टमिन्द्रे रथे न पादं रथेपादमिव आदधुः समर्पयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७