मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् ४

संहिता

इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।
ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥

पदपाठः

इ॒मे । इन्द्रा॑य । सु॒न्वि॒रे॒ । सोमा॑सः । दधि॑ऽआशिरः ।
तान् । आ । मदा॑य । व॒ज्र॒ऽह॒स्त॒ । पी॒तये॑ । हरि॑ऽभ्याम् । या॒हि॒ । ओकः॑ । आ ॥

सायणभाष्यम्

हे वज्रहस्त दध्याशिरो दधिमिश्रणा इमे सोमासः सोमाः इन्द्राय तुभ्यं सुन्विरे सुताबभूवुः । तान् सोमान् मदाय मदार्थं पीतये पानाय ओको यज्ञसदनं आअभि हरिभ्यामश्वाभ्यां आयाहि आगच्छ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७