मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् ५

संहिता

श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ ।
स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्स॑न्त॒मा मि॑नत् ॥

पदपाठः

श्रव॑त् । श्रुत्ऽक॑र्णः । ई॒य॒ते॒ । वसू॑नाम् । नु । चि॒त् । नः॒ । म॒र्धि॒ष॒त् । गिरः॑ ।
स॒द्यः । चि॒त् । यः । स॒हस्रा॑णि । स॒ता । दद॑त् । नकिः॑ । दित्स॑न्तम् । आ । मि॒न॒त् ॥

सायणभाष्यम्

श्रुत्कर्ण याच्चाश्रवणरूपकर्ण इन्द्रो वसूनां वसूनि ईयते याच्यते नोस्मदीयाः गिरोयाच्चावाक्यानि श्रवत् शृणोतु नूचित् नैव मर्धिषत् हिन- स्तु अश्रवणेन याच्चावाक्यानि निष्फलानि नकरोत्वित्यर्थः । अपि च यः इन्द्रः सद्यश्चित् सद्यएव याच्चानन्तमेव सहस्राणि शताशतानि च ददत् प्रयच्छेत् दित्सन्तं दातुमिच्छन्तं तमिन्द्रं नकिरामिनत् नहिंस्यात् कश्चिदपि नवारयेदित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७