मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् ६

संहिता

स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे॑ण शूशुवे॒ नृभि॑ः ।
यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्त्सु॒नोत्या च॒ धाव॑ति ॥

पदपाठः

सः । वी॒रः । अप्र॑तिऽस्कुतः । इन्द्रे॑ण । शू॒शु॒वे॒ । नृऽभिः॑ ।
यः । ते॒ । ग॒भी॒रा । सव॑नानि । वृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥

सायणभाष्यम्

हे वृत्रहन् ते त्वदर्थं यः पुमान् गभीरा गभीराणि सवनानि सोमान् सुनोति आधावतिच त्वां स्तुतिभिरुपधावतिच सवीरइन्द्रेण हेतुना अप्रतिष्कुतः केनाप्यप्रतिगतः अप्रतिशब्दितोवाभवेत् नृभिः परिचारकैः शूशुवे उपगम्यतेच श्वयतिर्गतिकर्मा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८