भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः ।
वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गय॑म् ॥
भव॑ । वरू॑थम् । म॒घ॒ऽव॒न् । म॒घोना॑म् । यत् । स॒म्ऽअजा॑सि । शर्ध॑तः ।
वि । त्वाऽह॑तस्य । वेद॑नम् । भ॒जे॒म॒हि॒ । आ । दुः॒ऽनशः॑ । भ॒र॒ । गय॑म् ॥
हे मघवन् धनवन्निन्द्र मघोनां हविष्मतां वरूथं उपद्रवाणां वारकं वर्म भव यद्यस्त्वं शर्धत उत्सहमानान् शत्रून् समजासि संप्रेरयेः अपि च त्वा हतस्य त्वया हतस्य शत्रोः वेदनं धनं विभजेमहि विशेषेण लभेमहि । किं च दुर्नशोनाशयितुमशक्यस्त्वं गयं गृहं धनं वा आभर अस्मभ्यमाहर ॥ ७ ॥