सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥
सु॒नोत॑ । सो॒म॒ऽपाव्ने॑ । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
पच॑त । प॒क्तीः । अव॑से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः॑ ॥
हे मदीयाः पुरुषाः वज्रिणे सोमपान्ने सोमस्यपात्रे इन्द्राय सोमं सुनोत अभिषुणुत अवसे इन्द्रं तर्पयितुं पक्तीः पक्तव्यान् पुरोडाशादीन् पचत च कृणुध्वमित् इन्द्रप्रियकराणि कर्माणि च कुरुतैव । इन्द्रो हि मयः सुखं पृणन्नित् यजमानय प्रयच्छन्नेव पृणते हवींषीति शेषः ॥ ८ ॥