मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् ९

संहिता

मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ ।
त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥

पदपाठः

मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष॑त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒ऽतुजे॑ ।
त॒रणिः॑ । इत् । ज॒य॒ति॒ । क्षेति॑ । पुष्य॑ति । न । दे॒वासः॑ । क॒व॒त्नवे॑ ॥

सायणभाष्यम्

हे मदीयाः जनाः सोमिनः सोमवतोयागात् मास्रेधत माहिंसिष्ट । दक्षत यागादिकं कर्तुमुत्सहध्वं च । महे महते आतुजे तुजिर्हिं साकर्मा दानकर्मा वा शत्रूणामभिहिंसकाय धनानां प्रदात्रेवेन्द्राय राये धनार्थं कृणुध्वं कर्माणि कुरुतच । तरणिरित् कर्मसु त्वरितएव जयति शत्रून् क्षेति गृहे निवसति च पुष्यति प्रजया पशुभिश्च पुष्टो भवति कवत्नवे कुत्सितक्रियायै कवोपसृष्टस्य अतेः सातस्यगमनकर्मणोरूपं कवत्नुरिति । देवासो देवानभवन्तीतिशेषः सुखप्राप्तये भवन्तीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८