मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १०

संहिता

नकि॑ः सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् ।
इन्द्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥

पदपाठः

नकिः॑ । सु॒ऽदासः॑ । रथ॑म् । परि॑ । आ॒स॒ । न । री॒र॒म॒त् ।
इन्द्रः॑ । यस्य॑ । अ॒वि॒ता । यस्य॑ । म॒रुतः॑ । गम॑त् । सः । गोऽम॑ति । व्र॒जे ॥

सायणभाष्यम्

सुदासः शोभनदानस्य यजमानस्य रथं नकिः पर्यास कश्चिन्नपर्यस्यति नरीरमत् नरमयति च आत्मार्थं नकश्चिदेनं गृह्णातीत्यर्थः । अपि च यस्येन्द्रोविता रक्षिता यस्य च मरुतोवितारः सगोमति गोयुक्ते व्रजे गोष्ठे गमत् गच्छेत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८