गम॒द्वाजं॑ वा॒जय॑न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ ।
अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णाम् ॥
गम॑त् । वाज॑म् । वा॒जय॑न् । इ॒न्द्र॒ । मर्त्यः॑ । यस्य॑ । त्वम् । अ॒वि॒ता । भुवः॑ ।
अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । रथा॑नाम् । अ॒स्माक॑म् । शू॒र॒ । नृ॒णाम् ॥
हे इन्द्र त्वं यस्य मर्त्यस्य अविता रक्षिता भुवः भवेः समर्त्यो वाजयन् स्तोत्रेण त्वां बलिनं कुर्वन् वाजमन्नं गमत् गच्छेत् अपि च हे शूर अस्माकं वासिष्ठानां स्थानां अविता रक्षिता बोधि भव भवतेर्लोटिरूपं भकारस्यबकारश्छान्दसः अस्माकं नृणां पुत्रादीनां चाविता भव ॥ ११ ॥