मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १२

संहिता

उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ ।
य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥

पदपाठः

उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।
यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥

सायणभाष्यम्

अस्येन्द्रस्य अंशो यज्ञे सोमस्य भागोतिरिच्यते अन्येभ्योपि देवेभ्यः इन्द्रस्य त्रिष्वपि सवनेषु सोमपानमस्ति माध्यंदिनं हि सर्वमैन्द्र- मिति जिग्युषोजितवतो धनं न धनमिव अदिन्न्विति त्रयःपूरणाः अपि च योहरिवानिन्द्रः सोमिनि यजमाने दक्षं बलं दधाति संदधाति तं रिपोरिपवोनदभन्ति नहिंसन्ति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९