मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १३

संहिता

मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।
पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥

पदपाठः

मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ।
पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥

सायणभाष्यम्

हे जनाः अखर्वं अनल्पं सुधितं सुविहितं सुपेशसं शोभनरूपं मंत्रं स्तोत्रं यज्ञियेषु यजनीयेषु देवेषु मध्ये इन्द्राय दधात विधत्त यो जनः कर्मणा स्तुत्यादिरूपेण इन्द्रे इन्द्रस्य चित्ते भुवत् भवेत् तं जनं पूर्वीर्बह्व्यः प्रसितयः पाशादीनि बंधनानि चनेति समुदायोत्यर्थे वर्तते नतरन्ति नव्याप्नुवन्ति इत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९