कस्तमि॑न्द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति ।
श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥
कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सुम् । आ । मर्त्यः॑ । द॒ध॒र्ष॒ति॒ ।
श्र॒द्धा । इत् । ते॒ । म॒घ॒ऽव॒न् । पार्ये॑ । दि॒वि । वा॒जी । वाज॑म् । सि॒सा॒स॒ति॒ ॥
हे इन्द्र तव चित्ते योभवेत् त्वावसुं त्वंवसुर्व्यापकोयस्येति बहुव्रीहिः तं जनं कोमर्त्यआदधर्षति आधर्षेत् मघवन् ते त्वदर्थं यः श्रद्धाइत् श्रद्धया युक्तः सन् वाजी हविष्मान् भवेत् पार्येदिवि सौत्येहनि वाजमन्नं बलं वासिषासति सेवते ॥ १४ ॥