मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १५

संहिता

म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ ।
तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥

पदपाठः

म॒घोनः॑ । स्म॒ । वृ॒त्र॒ऽहत्ये॑षु । चो॒द॒य॒ । ये । दद॑ति । प्रि॒या । वसु॑ ।
तव॑ । प्रऽनी॑ती । ह॒रि॒ऽअ॒श्व॒ । सू॒रिऽभिः॑ । विश्वा॑ । त॒रे॒म॒ । दुः॒ऽइ॒ता ॥

सायणभाष्यम्

हे इन्द्र मघोनोधनवतस्ते त्वदर्थमित्यर्थः प्रिया प्रियाणि वसु वसूनि धनानि ये जनाः ददति प्रयच्छन्ति स्मेतिपूरणः तान् जनान् वृत्रह- त्येषु संग्रामेषु चोदय प्रेरय हे हर्यश्व तवप्रणीती प्रणीत्या प्रणयनेन सूरिभिः स्तोतृभिः पुत्रादिभिः सार्धं विश्वा विश्वानि दुरिता दुरितानि तरेम ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९