मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १६

संहिता

तवेदि॑न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् ।
स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥

पदपाठः

तव॑ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु॑ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।
स॒त्रा । विश्व॑स्य । प॒र॒मस्य॑ । रा॒ज॒सि॒ । नकिः॑ । त्वा॒ । गोषु॑ । वृ॒ण्व॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र अवमं अधमं त्रपुसीसादिकं वसु धनं यद्वा भौमंवस्ववमंतवेत् तवैव त्वं त्वमेव मध्यमं वसु रजतहिरण्यादिकं आन्तरिक्षं वा पुष्यसि विश्वस्य सर्वस्य परमस्योत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनो राजसि ईशिषे सत्रा सत्यमेव अपि च त्वा त्वां गोषु निमित्तेषु नकिर्वृण्वते केपि न वारयन्ति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०