मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १८

संहिता

यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।
स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥

पदपाठः

यत् । इ॒न्द्र॒ । याव॑तः । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य ।
स्तो॒तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ । रा॒सी॒य॒ ॥

सायणभाष्यम्

हे इन्द्र यद्यतो यावतो धनस्य त्वं ईशिषे एतावत् षष्ठ्यालुक् एतावतोधनस्याहमीशीय ईश्वरो भवेयं हे रदवसो रदति ददाति वसूनीति रदवसुः ततोहमस्मदीयस्तोतारमिद्दिधिषेय धनप्रदानेन धारयेयमेव पापत्वाय नरासीय नदद्याम् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०