मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १९

संहिता

शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।
न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥

पदपाठः

शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽविदे॑ ।
नहि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ । अस्ति॑ । पि॒ता । च॒न ॥

सायणभाष्यम्

कुहचिद्विदे कुत्रचिद्विद्यमानः कुहचिद्वित् तस्मै यत्र क्वापि विद्यमानायेत्यर्थः महयते पूजयते जनाय दिवेदिवे प्रतिदिनं रायो धनानि शिक्षेयमित् दद्यामेव आकारः पूरणः । एवमिन्द्रस्य वाक्यं श्रुत्वा संतुष्टऋषिर्वदति हे मघवन् त्वत् त्वत्तोन्यत् नः अस्माकं आप्यं ज्ञातेयं नह्यस्ति वस्यः प्रशस्यः पिताचन पालयिताच त्वदन्योनास्तीत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०