मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २०

संहिता

त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा ।
आ व॒ इन्द्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्व॑म् ॥

पदपाठः

त॒रणिः॑ । इत् । सि॒सा॒स॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा ।
आ । वः॒ । इन्द्र॑म् । पु॒रु॒ऽहू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा॑ऽइव । सु॒ऽद्र्व॑म् ॥

सायणभाष्यम्

तरणिरित् स्तुत्यादौ कर्मणि त्वरितएव पुमान् पुरंध्या महत्या धिया युजा सहायभूतया वाजमन्नं सिषासति संभजते पुरुहूतं बहुभिरा- हूतमिन्द्रं वःत्वांगिरास्तुत्या अहं आनमे नेमिं चक्रस्य वलयं सुद्र्वं शोभनदारुं तष्टेव यथावर्धकिः दारुनेमिं आनमयते तद्वदित्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०