मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २१

संहिता

न दु॑ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् ।
सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥

पदपाठः

न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् ।
सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥

सायणभाष्यम्

मर्त्यो मनुष्यो दुष्टुती दुष्टुत्या वसु धनं न विन्दते इन्द्रं स्तुवन्नेव वसु लभतइत्यर्थः स्रेधन्तं हिंसन्तं इन्द्रविषयस्तुत्यादि कर्माण्यकुर्वन्तं इत्यर्थः रयिः धनं न नशत् नव्याप्नोति । हे मघवन् त्वया पार्ये दिवि सौत्ये दिवसे मावते मत्सदृशाय देष्णं दातव्यं यद्धनमस्ति तत्तुभ्यं त्वत्तः सुशक्तिरित् सुकर्मैव विंदत इति व्यवहितमप्यनुषज्यते अध्याहारस्यान्तिकत्वात् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१