मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २३

संहिता

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥

पदपाठः

न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ ।
अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे मघवन् इन्द्र दिव्यो दिविभवः त्वावान् त्वत्सदृशोन्यो न जायते पार्थिवः पृथिव्यां भवोपि त्वावानन्यो नजायते दिव्यः पार्थिवोवा त्वावानन्योनजातः नचजनिष्यते पृथिव्यां दिविच त्रिष्वपि लोकेषु त्वत्सदृशः कश्चिन्नास्तीत्यर्थः । अश्वायन्तोश्वानिच्छन्तो वाजिनो वाजमिच्छन्तः इच्छायामिनिप्रत्ययः हविष्मन्तोवा गव्यन्तोगाइच्छन्तश्च वयं त्वा त्वां हवामहे ह्वयामः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१