मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २४

संहिता

अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्याय॒ः कनी॑यसः ।
पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्य॑ः ॥

पदपाठः

अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र॑ । ज्यायः॑ । कनी॑यसः ।
पु॒रु॒ऽवसुः॑ । हि । म॒घ॒ऽव॒न् । स॒नात् । असि॑ । भरे॑ऽभरे । च॒ । हव्यः॑ ॥

सायणभाष्यम्

हे ज्यायो ज्यायन्निन्द्र आमंमित्रितं पूर्वविद्यमानवदिति इन्द्रपदस्याविद्यमानवद्भावात् ज्यायइत्यस्य सर्वानुदात्तत्वाभावः नकारस्यरुत्वं व्यत्ययान्नुमभावोवा । कनीयसः सतो मम तत्प्रसिद्धं धनं अभ्याभर हे मघवन् त्वं सनाच्चिरादेवारभ्य पुरूवसुर्हि बहुधनोह्यसि भरेभरे संग्रामे यज्ञेवा हव्यः आह्वातव्यः हविष्यश्चासि ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१