मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २५

संहिता

परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि ।
अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥

पदपाठः

परा॑ । नु॒द॒स्व॒ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । कृ॒धि॒ ।
अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । भव॑ । वृ॒धः । सखी॑नाम् ॥

सायणभाष्यम्

हे मघवन् परा पराचीनानमित्रान् शत्रून् नुदस्व प्रेरय नोस्मभ्यं वसु वसूनि सुवेदा सुलभानि कृधि कुरु । महाधने संग्रामे वाजसातौ महाधनइति संग्रामनामसु पाठात् सखीनां स्तोतॄणामस्माकं वसिष्ठानामविता रक्षिता बोधि भव वृधोवर्धयिता च भव ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१