मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् २६

संहिता

इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥

पदपाठः

इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ ।
शिक्ष॑ । नः॒ । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र नोस्मभ्यं क्रतुं कर्म प्रज्ञानं वा आभर आहर । अपि च यथा पिता पुत्रेभ्योधनं प्रयच्छति तथा नोस्मभ्यं शिक्ष धनं देहि । हे पुरुहूत बहूभिराहूत अस्मिन् यामनि यज्ञे जीवाः वयं ज्योतिः सूर्यमशीमहि प्रतिदिनं प्राप्नुयाम ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१