मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् १

संहिता

श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः ।
उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥

पदपाठः

श्वि॒त्यञ्चः॑ । मा॒ । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः ।
उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥

सायणभाष्यम्

श्वित्यंचः श्वित्यं श्वेतवर्णं अंचंतीति श्वित्यंचः श्वेतवर्णाइत्यर्थः धियं जिन्वासः कर्मणां पूरयितारो दक्षिणतस्कपर्दाः दक्षिणेशिरसोभागे कपर्दाः चूडा येषां ते दक्षिणतस्कपर्दाः चूडाकर्मणि दक्षिणतोवसिष्ठानामितिस्मर्यते । मा मां अभिप्रमन्दुः विद्याबलेनाभिप्रहर्षयन् हिः- पूरणः यतोमामभिप्रमन्दुरतोबर्हिषोयज्ञात् परीति पंचम्यर्थानुवादः उत्तिष्ठन् अहं नॄन् यज्ञस्य नेतॄन् वोचे ब्रवीमि मेमत्तोदूरात् वसिष्ठाः वसिष्ठस्य ममपुत्राः सुदासराजानं अवितवे गन्तुं न अर्हन्तीतिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२