मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् ३

संहिता

ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान ।
ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥

पदपाठः

ए॒व । इत् । नु । क॒म् । सिन्धु॑म् । ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ ।
ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥

सायणभाष्यम्

एवेत् यथा पाशद्युम्रस्य सवाख्ये सोमयागे चमसस्थं सोमं पिबन्तमपीद्रं वसिष्ठैः सुदाः प्राप्तवान् एवमेव सिन्धुं नदीं एभिर्वसिष्ठैः कं सुखेन ततार तीर्णआसीत् नुइतिपूरणः तथाचनिगमान्तारं-अर्णांसिचित्पप्रथानासुदासइति । एवेत् एवमेव भेदं भेदनामकं शत्रुमपि एभिर्वसिष्ठैरेव जघान । अथप्रत्यक्षस्तुतिः एवेत् एवमेव हे वसिष्ठाः वोयुष्मदीयेनब्रह्मणा स्तोत्रेण दाशराज्ञे दशभीराजभिः सह युद्धे प्रवृत्तेसति सुदासं राजानमिन्द्रः प्रावत् प्रारक्षत् तथाचनिगमान्तरं-दशराजानःसमिताअयज्यवः । सुदासमिन्द्रावरुणानयुयुधुरिति । दाशराज्ञेपरियत्तायविश्वतइतिच ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२