जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।
यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥
जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ ।
यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥
हे नरो वो युष्मदीयेन ब्रह्मणा स्तोत्रेण पितॄणां जुष्टी प्रीतिर्भवति पितॄणामित्यनेन पारोक्ष्येण वसिष्ठस्यैवकीर्तनं अहं प्रीतोभवामीत्यर्थः । अथेदानीं स्वमाश्रमं गन्तुमुद्यतोहं अक्षं रथस्याक्षं अव्ययं व्ययामि लडर्थेलङ् चालयामीत्यर्थः । यूयं न किल रिषथ नचक्षीणाभवथ हे वसिष्ठाः यद्यस्माच्छक्वरीष्वृक्षु बृहता श्रेष्ठेन रवेण साम्ना इन्द्रे शुष्मं बलं अदधात अधारयत ॥ ४ ॥