मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् ५

संहिता

उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ ।
वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥

पदपाठः

उत् । द्याम्ऽइ॑व । इत् । तृ॒ष्णऽजः॑ । ना॒थि॒तासः॑ । अदी॑धयुः । दा॒श॒ऽरा॒ज्ञे । वृ॒तासः॑ ।
वसि॑ष्ठस्य । स्तु॒व॒तः । इन्द्रः॑ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु॑ऽभ्यः । अ॒कृ॒णो॒त् । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

तष्णजोजाततृष्णाः वृतासः तृत्सुभीराजभिर्वृताः नाथितासोवृष्टिं याचमाना वसिष्ठाः द्यामिव आदित्यमिवेन्द्रं दाशराज्ञे दशानां राज्ञां संग्रामे उददीधयुः उददीधयन् स्तुवतोवसिष्ठस्य स्तोत्रमिन्द्रः अश्रोदशृणोच्च उरुं विस्तीर्णं लोकं तृत्सुभ्योराजभ्यः अकृणोदकरोच्च अददाच्चेत्यर्थः इदपरणौ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२