मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् ९

संहिता

त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति ।
य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥

पदपाठः

ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।
य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥

सायणभाष्यम्

तइत् तएव वसिष्ठाः निण्यं तिरोहितं दुर्ज्ञानं निण्यं सस्वरित्यंतर्हितनामसु पाठात् सहस्रवल्शं सहस्रशाखं संसारं हृदयस्य प्रकेतैः प्रज्ञानै- रभिसंचरन्ति एवं स्वाच्छन्द्येनाभिसंचरन्तस्तेवसिष्ठाः यमेनकारणात्मना सर्वनियंत्रा ततं विस्तृतं परिधिं वस्त्रं परिधिरित्येनन जन्मा- दिप्रवाहोविवक्षितः तं वयंतोऽप्सरसो जननीत्वेनोपसेदुः । अत्र वसिष्ठाइति बहुवचनं पूजायां वसिष्ठः पूर्वं प्रजापतेरुत्पन्नं देहमुत्सृज्या- प्सरस्सु जायेयेति बुद्धिमकरोदितिभावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३