मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् ११

संहिता

उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।
द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥

पदपाठः

उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः ।
द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥

सायणभाष्यम्

उतापिच हे वसिष्ठ मैत्रावरुण मित्रावरुणयोः पुत्रोसि हे ब्रह्मन् वसिष्ठ उर्वश्याअप्सरसोमनसोममायं पुत्रःस्यादिति ईदृशात्संकल्पात् द्रप्सं रेतोमित्रावरुणयोरुर्वशीदर्शनात् स्कन्नमासीत् तस्मादधिजातोसि । तथा च वक्ष्यते सत्रेहजातावित्यृचि । एवं जातं त्वा त्वां दैव्येन देवसंबन्धिना ब्रह्मणा वेदराशिना अहंभुवा युक्तं पुष्करे विश्वेदेवा अददन्तअधारयंत । तथा चादितोर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते-तयोरादित्ययोःसत्रेदृष्ठ्वाप्सरसमुर्वशीम् । रेतश्चस्कंदतत्कुंभेन्यपतद्वासतीवरे ॥ १ ॥ तेनैवतुमुहूर्तेन वीर्यवंतौतपस्विनौ । अगस्त्य- श्चवसिष्ठश्चतत्रर्षीसंबभूवतुः ॥ २ ॥ बहुधापतितं रेतः कलशेचजलेस्थले । स्थलेवसिष्ठस्तुमुनिः संभूतऋषिसत्तमः ॥ ३ ॥ कुंभेत्वगस्त्यः संभूतो जलेमत्स्योमहाद्युतिः । उदियायततोगस्त्यः शम्यामात्रोमहातपाः ॥ ४ ॥ मानेनसंमितोयस्मात्तस्मान्मान्यइहोच्यते । यद्वा कुंभादृ- षिर्जातः कुंभेनापिहिमीयते ॥ ५ ॥ कुंभइत्यभिधानंच परिमाणंचलक्ष्यते । ततोप्सुगृह्यमाणासु वसिष्ठःपुष्करेस्थितः ॥ ६ ॥ सर्वतःपुष्करेतंहि विश्वेदेवाअधारयन्निति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४