मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् १२

संहिता

स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः ।
य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रस॒ः परि॑ जज्ञे॒ वसि॑ष्ठः ॥

पदपाठः

सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः ।
य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥

सायणभाष्यम्

सः वसिष्ठः प्रकेतः प्रकृष्टज्ञानः उभयस्य उभयं दिवं च पृथिवीं च विद्वान् प्रकर्षेण जानन् सहस्रदानोभवत् किमनेन सहस्रदानइति विशेषणेन उत वा अपि वा सदानः सर्वदानसहितएवाभवत् । किं च वसिष्ठोयमेनकारणात्मना सर्वनियंत्रा ततं विस्तृतं परिधिं वस्त्रं परिधिरित्यनेन संसारप्रवाहोविवक्षितः तं वयिष्यन् अप्सरसः उर्वश्याः परितिपंचम्यर्थानुवादः जज्ञेजातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४