मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् १३

संहिता

स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् ।
ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥

पदपाठः

स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् ।
ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मध्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥

सायणभाष्यम्

सत्रे बहुकर्तृके यागे हेतिपूरणः जातौ दीक्षितौ मित्रावरुणौ इषिताध्येषितौ स्वयमन्यैर्जनैर्नमोभिः स्तुतिभिः कुंभेवासतीवरे कलशे समा- नमेकदैव रेतः सिषिचतुः असिंचतां ततोवासतीवरात् कुंभात् मध्यादगस्त्योमानः शमीप्रमाणउदियाय प्रादुर्बभूव ततएव कुंभाद्वसिष्ठम- प्यषिंजातमाहुः हेतिपूरणः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४