मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १

संहिता

प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥

पदपाठः

प्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सुऽत॑ष्टः । रथः॑ । न । वा॒जी ॥

सायणभाष्यम्

शुक्रा दीप्ता देवी सर्वेषां कामानां प्रदात्री मनीषा स्तुतिरस्मदस्मत्तोस्मिन्सूक्ते स्तोष्यमाणान् देवान् वाजी वेगवान् सुतष्टः सुसंस्कृतोरथोन रथइव प्रैतु गच्छतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५