आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥
आ । धूः॒ऽसु । अ॒स्मै॒ । दधा॑त । अश्वा॑न् । इन्द्रः॑ । न । व॒ज्री । हिर॑ण्यऽबाहुः ॥
अस्मै षष्ठ्यर्थेचतुर्थी अस्येन्द्रस्यागमनायाश्वान् धूर्षु रथस्य आदधात इन्द्रोन नेतिचार्थे इन्द्रः वज्री वज्रवान् हिरण्यबाहुः हिरण्यहस्तश्च भवति । षोडशिनिशस्यमानत्वादस्याऎन्द्रत्वं गम्यते आधूर्ष्वस्माइत्यत्रास्माइत्यस्य पदस्यानुदात्तत्वं पूर्वस्यामिन्द्रस्य प्रकृतत्वात् अतएव पूर्वाप्यैन्द्रीति विज्ञायते पूर्वस्यामप्यृचि अस्माइत्यत्रानुदात्तत्वं अल्पीयोर्थतरमनुदात्तमिति । तथाच यास्कः-अस्येतिचोदात्तं प्रथमादेशे- नुदात्तमन्वादेशेतीव्रार्थतरमनुदात्तमल्पीयोर्थतरमनुदात्तमिति । अल्पीयस्त्वं चेदंशब्दप्रवृत्तिनिमित्तस्य संनिधानस्य दूरस्थत्वेनेत्यवग- न्तव्यम् ॥ ४ ॥